Rig Veda - Book 01 - Hymn 182
Text: Rig Veda Book 1 Hymn 182 अभूदिदं वयुनमो षु भूषता रथो वर्षण्वान मदता मनीषिणः | धियंजिन्वा धिष्ण्या विश्पलावसू दिवो नपात सुक्र्ते शुचिव्रता || इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा | पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना || किमत्र दस्रा कर्णुथः किमासाथे जनो यः कश्चिदहविर्महीयते | अति करमिष्टं जुरतं पणेरसुं जयोतिर्विप्राय कर्णुतं वचस्यवे || जम्भयतमभितो रायतः शुनो हतं मर्धो विदथुस्तान्यश्विना | वाचं-वाचं जरितू रत्निनीं कर्तमुभा शंसं नासत्यावतं मम || युवमेतं चक्रथुः सिन्धुषु पलवमात्मन्वन्तं पक्षिणन्तौग्र्याय कम | येन देवत्रा मनसा निरूहथुः सुपप्तनीपेतथुः कषोदसो महः || अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि परविद्धम | चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति || कः सविद वर्क्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत | पर्णा मर्गस्य पतरोरिवारभ उदश्विना ऊहथुः शरोमताय कम || तद वां नरा नासत्यावनु षयाद यद वां मानास उचथमवोचन | अस्मादद्य सदसः सोम्यादा] वि… ||...