Rig Veda - Book 10 - Hymn 159
Text: Rig Veda Book 10 Hymn 159 उदसौ सूर्यो अगादुदयं मामको भगः | अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः || अहं केतुरहं मूर्धाहमुग्रा विवाचनी | ममेदनुक्रतुं पतिः सेहानाया उपाचरेत || मम पुत्राः शत्रुहणो.अथो मे दुहिता विराट | उताहमस्मि संजया पत्यौ मे शलोक उत्तमः || येनेन्द्रो हविषा कर्त्व्यभवद दयुम्न्युत्तमः | इदं तदक्रि देवा असपत्ना किलाभुवम || असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी | आव्र्क्षमन्यासां वर्चो राधो अस्थेयसामिव || समजैषमिमा अहं सपत्नीरभिभूवरी | यथाहमस्य वीरस्य विराजानि जनस्य च ||...