Rig Veda - Book 10 - Hymn 144
Text: Rig Veda Book 10 Hymn 144 अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते | दक्षो विश्वायुर्वेधसे || अयमस्मासु काव्य रभुर्वज्रो दास्वते | अयं बिभर्त्यूर्ध्वक्र्शनं मदं रभुर्न कर्त्व्यं मदम || घर्षुः शयेनाय कर्त्वन आसु सवासु वंसगः | अव दीधेदहीशुवः || यं सुपर्णः परावतः शयेनस्य पुत्र आभरत | शतचक्रं यो.अह्यो वर्तनिः || यं ते शयेनश्चारुमव्र्कं पदाभरदरुणं मानमन्धसः | एना वयो वि तार्यायुर्जीवस एना जागारबन्धुता || एवा तदिन्द्र इन्दुना देवेषु चिद धारयाते महि तयजः | करत्वा वयो वि तार्यायुः सुक्रतो करत्वायमस्मदासुतः ||...