Rig Veda - Book 09 - Hymn 101
Text: Rig Veda Book 9 Hymn 101 पुरोजिती वो अन्धसः सुताय मादयित्नवे | अप शवानं शनथिष्टन सखायो दीर्घजिह्व्यम || यो धारया पावकया परिप्रस्यन्दते सुतः | इन्दुरश्वो न कर्त्व्यः || तं दुरोषमभी नरः सोमं विश्वाच्या धिया | यज्ञं हिन्वन्त्यद्रिभिः || सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः | पवित्रवन्तोक्षरन देवान गछन्तु वो मदाः || इन्दुरिन्द्राय पवत इति देवासो अब्रुवन | वाचस पतिर्मखस्यते विश्वस्येशान ओजसा || सहस्रधारः पवते समुद्रो वाचमीङखयः | सोमः पती रयीणां सखेन्द्रस्य दिवे-दिवे || अयं पूषा रयिर्भगः सोमः पुनानो अर्षति | पतिर्विश्वस्य भूमनो वयख्यद रोदसी उभे || समु परिया अनूषत गावो मदाय घर्ष्वयः | सोमासः कर्ण्वते पथः पवमानास इन्दवः || य ओजिष्ठस्तमा भर पवमन शरवाय्यम | यः पञ्चचर्षणीरभि रयिं येन वनामहै || सोमाः पवन्त इन्दवो....