Rig Veda - Book 09 - Hymn 98
Text: Rig Veda Book 9 Hymn 98 अभि नो वाजसातमं रयिमर्ष पुरुस्प्र्हम | इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम || परि षय सुवानो अव्ययं रथे न वर्माव्यत | इन्दुरभिद्रुणा हितो हियानो धाराभिरक्षाः || परि षय सुवानो अक्षा इन्दुरव्ये मदच्युतः | धारा य ऊर्ध्वो अध्वरे भराजा नैति गव्ययुः || स हि तवं देव शश्वते वसु मर्ताय दाशुषे | इन्दो सहस्रिणं रयिं शतात्मानं विवाससि || वयं ते अस्य वर्त्रहन वसो वस्वः पुरुस्प्र्हः | नि नेदिष्ठतमा इषः सयाम सुम्नस्याध्रिगो || दविर्यं पञ्च सवयशसं सवसारो अद्रिसंहतम | परियमिन्द्रस्य काम्यं परस्नापयन्त्यूर्मिणम || परि तयं हर्यतं हरिं बभ्रुं पुनन्ति वारेण | यो देवान विश्वानित परि मदेन सह गछति || अस्य वो हयवसा पान्तो दक्षसाधनम | यः सूरिषु शरवोब्र्हद दधे सवर्ण हर्यतः || स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी | देवो देवी गिरिष्ठा अस्रेधन तं तुविष्वणि || इन्द्राय सोम पातवे वर्त्रघ्ने परि षिच्यसे | नरे च दक्षिणावते देवाय सदनासदे || ते परत्नासो वयुष्टिषु सोमाः पवित्रे अक्षरन | अपप्रोथन्तः सनुतर्हुरश्चितः परातस्तानप्रचेतसः || तं सखायः पुरोरुचं यूयं वयं च सूरयः | अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम ||...