Onkareshvara Mahatmyam

Onkareshvara Mahatmyam Text ॐकारेश्वरमहात्म्यम् पार्वती - महादेवमहानन्दकरुणामृतसागर । श्रुतमुत्तममाख्यानं महाकालगणस्य च ॥ २॥ किं वान्यत् प्रीतिजनकं क्षेत्रमस्ति महेश्वर । क्षेत्राणां त्वं पतिः शम्भो विशिष्टं वक्तुमर्हसि ॥ ३॥ ईश्वरः - क्षेत्रमस्त्येकमुत्कृष्टमुत्फुल्लकमलानने । ओङ्कारं नाम विमलं कलिकल्मषनाशनम् ॥ ४॥ तत्र शैववरा नित्यं निवसन्ति सहस्रशः । ते सर्वे मम लिङ्गार्चां कुर्वन्त्येव प्रतिक्षणम् ॥ ५॥ भासिताभासितैर्नित्यं शान्ता दान्ता जितेन्द्रियाः । रुद्राक्षवरभूषाढ्या भालाक्षान्यस्तमानसाः ॥ ६॥ तत्रास्ति सरितां श्रेष्ठा लिङ्गसङ्गतरङ्गिता । नर्मदा शर्मदा नित्यं स्नानात्पानावगाहनात् ॥ ७॥ पापौघसङ्घभङ्गाढ्या वातपोतसुशीतला । तत्रास्ति कुण्डमुत्कृष्टमोङ्काराख्यं शुचिस्मिते ॥ ८॥ तत्कुण्डदर्शनादेव मल्लोके निवसेच्चिरम् । तत्कुण्डोदकपानेन हृदि लिङ्गं प्रजायते ॥ ९॥ भावाः पिबन्ति तत्कुण्डजलं शीतं विमुक्तये । तृप्तिं प्रयान्ति पितरः तत्कुण्डजलतर्पिताः ॥ १०॥ सदा तत्कुण्डरक्षार्थं गणाः संस्थापिता मया । कुण्डधारप्रभृतयः शूलमुद्गरपाणयः ॥ ११॥ गजेन्द्रचर्मवसना मृगेन्द्रसमविक्रमाः । हरीन्द्रानपि ते हन्युर्गिरीन्द्रसमविग्रहाह ॥ १२॥ धनुःशरकराः सर्वे जटाशोभितमस्तकाः । अग्निरित्यादिभिर्मन्त्रैर्भस्मोद्धूलितविग्रहा ॥ १३॥ सङ्ग्राममुखराः सर्वे गणा मेदुरविग्रहाः । कदाचिदननुज्ञाप्त तान् गणान् मददर्पितः ॥ १४॥ अप्सरोभिः परिवृतो मरुतां पतिरुद्धतः । आरुह्याभ्रमुनाथं तं क्रीडितुं नर्मदाजले ॥ १५॥ समाजगाम त्वरितः शच्या साकं शिवे तदा । तदा तं गणपाः क्रुद्धाः सर्वे ते ह्यतिमन्यवः ॥ १६॥ सगजं पातयन्नब्धौ शच्या साकं सुरेश्वरम् । सुरांस्तदा सवरुणान् बिभिदुः पवनानलान् ॥ १७॥ निस्त्रिंशवरधाराभिः सुतीक्ष्णाग्रैः शिलीमुखैः । मुद्गरैर्बिभिदुश्चान्ये सवाहायुधभूषणान् ॥ १८॥ विवाहनांस्तदा देवान् स्रवद्रक्तान् स्खलत्पदान् । कान्दिशीकान् मुक्तकेशान् क्षणाच्चक्रुर्गणेश्वराः ॥ १९॥ अप्सरास्ता विकन्नराः रुदन्त्यो मुक्तमूर्धजाः । हाहा बतेति क्रन्दन्त्यः स्रवद्रक्तार्द्रवाससः ॥ २०॥ तथा देवगणाः सर्वे शक्राद्या भयकम्पिताः । ओङ्कारं तत्र तल्लिङ्गं शरणं जग्मुरीश्वरम् ॥ २१॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे ओङ्कारेश्वरमहात्म्यम् ॥ ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ७। २-२१॥ ....

September 22, 2023 · 4 min · TheAum