Rig Veda - Book 10 - Hymn 16
Text: Rig Veda Book 10 Hymn 16 मैनमग्ने वि दहो माभि शोचो मास्य तवचं चिक्षिपो माशरीरम | यदा शर्तं कर्णवो जातवेदो.अथेमेनं परहिणुतात पित्र्भ्यः || शर्तं यदा करसि जातवेदो.अथेमेनं परि दत्तात्पित्र्भ्यः | यदा गछात्यसुनीतिमेतामथा देवानांवशनीर्भवाति || सूर्यं चक्षुर्गछतु वातमात्मा दयां च गछप्र्थिवीं च धर्मणा | अपो वा गछ यदि तत्र ते हितमोषधीषु परति तिष्ठा शरीरैः || अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं तेर्चिः | यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनंसुक्र्तामु लोकम || अव सर्ज पुनरग्ने पित्र्भ्यो यस्त आहुतश्चरतिस्वधाभिः | अयुर्वसान उप वेतु शेषः सं गछतान्तन्वा जातवेदः || यत ते कर्ष्णः शकुन आतुतोद पिपीलः सर्प उत वाश्वापदः | अग्निष टद विश्वादगदं कर्णोतु सोमश्च योब्राह्मणानाविवेश || अग्नेर्वर्म परि गोभिर्व्ययस्व सं परोर्णुष्व पीवसामेदसा च | नेत तवा धर्ष्णुर्हरसा जर्ह्र्षाणो दध्र्ग्विधक्ष्यन पर्यङखयाते || इममग्ने चमसं मा वि जिह्वरः परियो देवानामुतसोम्यानाम | एष यश्चमसो देवपानस्तस्मिन देवा अम्र्तामादयन्ते || करव्यादमग्निं पर हिणोमि दूरं यमराज्ञो गछतुरिप्रवाहः | इहैवायमितरो जातवेदा देवेभ्यो हव्यंवहतु परजानन || यो अग्निः करव्यात परविवेश वो गर्हमिमं पश्यन्नितरंजातवेदसम | तं हरामि पित्र्यज्ञाय देवं स घर्ममिन्वात परमे सधस्थे || यो अग्निः करव्यवाहनः पितॄन यक्षद रताव्र्धः | परेदुहव्यानि वोचति देवेभ्यश्च पित्र्भ्य आ || उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि | उशन्नुशत आ वह पितॄन हविषे अत्तवे || यं तवमग्ने समदहस्तमु निर्वापया पुनः | कियाम्ब्वत्र रोहतु पाकदूर्वा वयल्कशा || शीतिके शीतिकावति हलादिके हलादिकावति | मण्डूक्या सुसं गम इमं सवग्निं हर्षय ||...