Rig Veda - Book 10 - Hymn 166
Text: Rig Veda Book 10 Hymn 166 रषभं मा समानानां सपत्नानां विषासहिम | हन्तारंशत्रूणां कर्धि विराजं गोपतिं गवाम || अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः | अधः सपत्नामे पदोरिमे सर्वे अभिष्ठिताः || अत्रैव वो.अपि नह्याम्युभे आर्त्नी इव जयया | वाचस पतेनि षेधेमान यथा मदधरं वदान || अभिभूरहमागमं विश्वकर्मेण धाम्ना | आ वश्चित्तमा वो वरतमा वो.अहं समितिं ददे || योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम | अधस्पदान म उद वदत मण्डूका इवोदकान्मण्डूका उदकादिव ||...