Rig Veda - Book 09 - Hymn 106
Text: Rig Veda Book 9 Hymn 106 इन्द्रमछ सुता इमे वर्षणं यन्तु हरयः | शरुष्टी जातास इन्दवः सवर्विदः || अयं भराय सानसिरिन्द्राय पवते सुतः | सोमो जैत्रस्यचेतति यथा विदे || अस्येदिन्द्रो मदेष्वा गराभं गर्भ्णीत सानसिम | वज्रंच वर्षणं भरत समप्सुजित || पर धन्वा सोम जाग्र्विरिन्द्रायेन्दो परि सरव | दयुमन्तं शुष्ममा भरा सवर्विदम || इन्द्राय वर्षणं मदं पवस्व विश्वदर्शतः | सहस्रयामा पथिक्र्द विचक्षणः || अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः | सहस्रं याहिपथिभिः कनिक्रदत || पवस्व देववीतय इन्दो धाराभिरोजसा | आ कलशं मधुमान सोम नः सदः || तव दरप्सा उदप्रुत इन्द्रं मदाय वाव्र्धुः | तवां देवासो अम्र्ताय कं पपुः || आ नः सुतास इन्दवः पुनाना धावता रयिम | वर्ष्टिद्यावोरीत्यापः सवर्विदः || सोमः पुनान ऊर्मिणाव्यो वारं वि धावति | अग्रे वाचःपवमानः कनिक्रदत || धीभिर्हिन्वन्ति वाजिनं वने करीळन्तमत्यविम | अभि तरिप्र्ष्ठं मतयः समस्वरन || असर्जि कलशानभि मीळ्हे सप्तिर्न वाजयुः | पुनानो वाचं जनयन्नसिष्यदत || पवते हर्यतो हरिरति हवरांसि रंह्या | अभ्यर्षन सतोत्र्भ्यो वीरवद यशः || अया पवस्व देवयुर्मधोर्धारा अस्र्क्षत | रेभन पवित्रम्पर्येषि विश्वतः ||...