Rig Veda - Book 09 - Hymn 16
Text: Rig Veda Book 9 Hymn 16 पर ते सोतार ओण्यो रसं मदाय घर्ष्वय | सर्गो न तक्त्येतशः || करत्वा दक्षस्य रथ्यमपो वसानमन्धसा | गोषामण्वेषु सश्चिम || अनप्तमप्सु दुष्टरं सोमं पवित्र आ सर्ज | पुनीहीन्द्राय पातवे || पर पुनानस्य चेतसा सोमः पवित्रे अर्षति | करत्वा सधस्थमासदत || पर तवा नमोभिरिन्दव इन्द्र सोमा अस्र्क्षत | महे भरायकारिणः || पुनानो रूपे अव्यये विश्वा अर्षन्नभि शरियः | शूरो न गोषु तिष्ठति || दिवो न सानु पिप्युषी धारा सुतस्य वेधसः | वर्था पवित्रे अर्षति || तवं सोम विपश्चितं तना पुनान आयुषु | अव्यो वारं वि धावसि ||...