Rig Veda - Book 09 - Hymn 1
Text: Rig Veda Book 9 Hymn 1 सवादिष्ठया मदिष्ठया पवस्व सोम धारया | इन्द्राय पातवे सुतः || रक्षोहा विश्वचर्षनिरभि योनिमयोहतम | दरुणा सधस्थमासदत || वरिवोधातमो भव मंहिष्ठो वर्त्रहन्तमः | पर्षि राधोमघोनाम || अभ्यर्ष महानां देवानां वीतिमन्धसा | अभि वाजमुत शरवः || तवामछा चरामसि तदिदर्थं दिवे-दिवे | इन्दो तवे न आशसः || पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता | वारेण शश्वता तना || तमीमण्वीः समर्य आ गर्भ्णन्ति योषणो दश | सवसारः पार्ये दिवि || तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दर्तिम | तरिधातु वारणं मधु || अभीममघ्न्या उत शरीणन्ति धेनवः शिशुम | सोममिन्द्राय पातवे || अस्येदिन्द्रो मदेष्वा विश्वा वर्त्राणि जिघ्नते | शूरो मघा च मंहते ||...