Rig Veda - Book 08 - Hymn 76
Text: Rig Veda Book 8 Hymn 76 इमं नु मायिनं हुव इन्द्रमीशानमोजसा | मरुत्वन्तंन वर्ञ्जसे || अयमिन्द्रो मरुत्सखा वि वर्त्रस्याभिनच्छिरः | वज्रेण शतपर्वणा || वाव्र्धानो मरुत्सखेन्द्रो वि वर्त्रमैरयत | सर्जन समुद्रियापः || अयं ह येन वा इदं सवर्मरुत्वता जितम | इन्द्रेण सोमपीतये || मरुत्वन्तं रजीषिणमोजस्वन्तं विरप्शिनम | इन्द्रं गीर्भिर्हवामहे || इन्द्रं परत्नेन मन्मना मरुत्वन्तं हवामहे | अस्य सोमस्य पीतये || मरुत्वानिन्द्र मीढ्वः पिबा सोमं शतक्रतो | अस्मिन यज्ञेपुरुष्टुत || तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः | हर्दा हूयन्त उक्थिनः || पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु | वज्रं शिशान ओजसा || उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः | सोममिन्द्रचमू सुतम || अनु तवा रोदसी उभे करक्षमाणमक्र्पेताम | इन्द्र यद दस्युहाभवः || वाचमष्टापदीमहं नवस्रक्तिं रतस्प्र्शम | इन्द्रात परि तन्वं ममे ||...