Rig Veda - Book 08 - Hymn 61
Text: Rig Veda Book 8 Hymn 61 उभयं शर्णवच्च न इन्द्रो अर्वागिदं वचः | सत्राच्यामघवा सोमपीतये धिया शविष्ठ आ गमत || तं हि सवराजं वर्षभं तमोजसे धिषणे निष्टतक्षतुः | उतोपमानां परथमो नि षीदसि सोमकामं हि ते मनः || आ वर्षस्व पुरूवसो सुतस्येन्द्रान्धसः | विद्मा हि तवा हरिवः पर्त्सु सासहिमध्र्ष्टं चिद दध्र्ष्वणिम || अप्रामिसत्य मघवन तथेदसदिन्द्र करत्वा यथा वशः | सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद यन्तो अद्रिवः || शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः | भगंन हि तवा यशसं वसुविदमनु शूर चरामसि || पौरो अश्वस्य पुरुक्र्द गवामस्युत्सो देव हिरण्ययः | नकिर्हि दानं परिमर्धिषत तवे यद-यद यामि तदा भर || तवं हयेहि चेरवे विदा भगं वसुत्तये | उद वाव्र्षस्व मघवन गविष्टय उदिन्द्राश्वमिष्टये || तवं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे | आ पुरन्दरं चक्र्म विप्रवचस इन्द्रं गायन्तो....