Srimad-Bhagavatam: Canto 10 - Chapter 90 - Verse 01-7
Srimad-Bhagavatam: Canto 10 - Chapter 1 - Verse 01-7 Sanskrit: श्रीशुक उवाचसुखं स्वपुर्यां निवसन् द्वारकायां श्रिय: पति: ।सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवै: ॥ १ ॥स्त्रीभिश्चोत्तमवेषाभिर्नवयौवनकान्तिभि: ।कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभि: ॥ २ ॥नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजै: ।स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलै: ॥ ३ ॥उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।निर्विशद् भृङ्गविहगैर्नादितायां समन्तत: ॥ ४ ॥रेमे षोडशसाहस्रपत्नीनामेकवल्लभ: ।तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु ॥ ५ ॥प्रोत्फुल्लोत्पलकह्लारकुमुदाम्भोजरेणुभि: ।वासितामलतोयेषु कूजद्द्विजकुलेषु च ॥ ६ ॥विजहार विगाह्याम्भो ह्रदिनीषु महोदय: ।कुचकुङ्कुमलिप्ताङ्ग: परिरब्धश्च योषिताम् ॥ ७ ॥ ITRANS: śrī-śuka uvācasukhaṁ sva-puryāṁ nivasandvārakāyāṁ śriyaḥ patiḥsarva-sampat-samṛddhāyāṁjuṣṭāyāṁ vṛṣṇi-puṅgavaiḥ...