Rig Veda - Book 09 - Hymn 75
Text: Rig Veda Book 9 Hymn 75 अभि परियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते | आ सूर्यस्य बर्हतो बर्हन्नधि रथं विष्वञ्चमरुहद विचक्षणः || रतस्य जिह्वा पवते मधु परियं वक्ता पतिर्धियो अस्या अदाभ्यः | दधाति पुत्रः पित्रोरपीच्यं नाम तर्तीयमधि रोचने दिवः || अव दयुतानः कलशानचिक्रदन नर्भिर्येमानः कोश आ हिरण्यये | अभीं रतस्य दोहना अनूषताधि तरिप्र्ष्ठ उषसो वि राजति || अद्रिभिः सुतो मतिभिश्चनोहितः पररोचयन रोदसी मातराशुचिः | रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवे-दिवे || परि सोम पर धन्वा सवस्तये नर्भिः पुनानो अभि वासयाशिरम | ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम ||...