Rig Veda - Book 06 - Hymn 54
Text: Rig Veda Book 6 Hymn 54 सं पूषन विदुषा नय यो अञ्जसानुशासति | य एवेदमिति बरवत || समु पूष्णा गमेमहि यो गर्हानभिशासति | इम एवेति चब्रवत || पूष्णश्चक्रं न रिष्यति न कोशो.अव पद्यते | नो अस्य वयथते पविः || यो अस्मै हविषाविधन न तं पूषापि मर्ष्यते | परथमो विदते वसु || पूषा गा अन्वेतु नः पुषा रक्षत्वर्वतः | पूषा वाजं सनोतु नः || पूषन्ननु पर गा इहि यजमानस्य सुन्वतः | अस्माकं सतुवतामुत || माकिर्नेशन माकीं रिषन माकीं सं शारि केवटे | अथारिष्टाभिरा गहि || शर्ण्वन्तं पूषणं वयमिर्यमनष्टवेदसम | ईशानंराय ईमहे || पूषन तव वरते वयं न रिष्येम कदा चन | सतोतारस्त इह समसि || परि पूषा परस्ताद धस्तं दधातु दक्षिणम | पुनर्नो नष्टमाजतु ||...