Rig Veda - Book 09 - Hymn 21
Text: Rig Veda Book 9 Hymn 21 एते धावन्तीन्दवः सोमा इन्द्राय घर्ष्वयः | मत्सरासःस्वर्विदः || परव्र्ण्वन्तो अभियुजः सुष्वये वरिवोविदः | सवयं सतोत्रे वयस्क्र्तः || वर्था करीळन्त इन्दवः सधस्थमभ्येकमित | सिन्धोरूर्मा वयक्षरन || एते विश्वानि वार्या पवमानास आशत | हिता न सप्तयो रथे || आस्मिन पिशङगमिन्दवो दधाता वेनमादिशे | यो अस्मभ्यमरावा || रभुर्न रथ्यं नवं दधाता केतमादिशे | शुक्राः पवध्वमर्णसा || एत उ तये अवीवशन काष्ठां वाजिनो अक्रत | सतः परासाविषुर्मतिम ||...