Rig Veda - Book 09 - Hymn 18
Text: Rig Veda Book 9 Hymn 18 परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः | मदेषु सर्वधा असि || तवं विप्रस्त्वं कविर्मधु पर जातमन्धसः | मदेषु… || तव विश्वे सजोषसो देवासः पीतिमाशत | मदेषु … || आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे | मदेषु … || य इमे रोदसी मही सं मातरेव दोहते | मदेषु … || परि यो रोदसी उभे सद्यो वाजेभिरर्षति | मदेषु … || स शुष्मी कलशेष्वा पुनानो अचिक्रदत | मदेषु … ||...