Rig Veda - Book 08 - Hymn 59
Text: Rig Veda Book 8 Hymn 59 इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा पर महे सुतेषु वाम | यज्ञे-यज्ञे ह सवना भुरण्यथो यत सुन्वते यजमानाय शिक्षथः || निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत | या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते || सत्यं तदिन्द्रावरुणा कर्शस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः | ताभिर्दाश्वांसमवतं शुभस पती यो वामदब्धो अभि पाति चित्तिभिः || घर्तप्रुषः सौम्या जीरदानवः सप्त सवसारः सदन रतस्य | या ह वामिन्द्रावरुणा घर्तश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम || अवोचाम महते सौभगाय सत्यं तवेषाभ्यां महिमानमिन्द्रियम | अस्मान सविन्द्रावरुणा घर्तश्चुतस्त्रिभिः साप्तेभिरवतं शुभस पती || इन्द्रावरुणा यद रषिभ्यो मनीषां वाचो मतिं शरुतमदत्तमग्रे | यानि सथानान्यस्र्जन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम || इन्द्रावरुणा सौमनसमद्र्प्तं रायस पोषं यजमानेषु धत्तम | परजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय पर तिरतं न आयुः ||...