Devi Suktam Mantra | Devīsūktam | Aṃbhṛnīsūktam Hymn Chanted देवीसूक्तं अथवा वागाम्भृणीसूक्तं ऋग्वेदान्तर्गतम् ऋषिः वागाम्भृणी, देवता वागाम्भृणी, छन्दः १, ३, ७, ८ विराट्त्रिष्टुप्, २ पादनिचृज्जगती, ४, ५ त्रिष्टुप्, ६ निचृत्त्रिष्टुप्, स्वरः १, ३-८ धैवतः, ३ निषादः ॥ अथ देवीसूक्तम् ॥ ॐ अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः । अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ॥ १॥ अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भगम्᳚ । अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒ ए॒ ३॒॑ यज॑मानाय सुन्व॒ते ॥ २॥ अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् । तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚ वे॒शयन्᳚तीम् ॥ ३॥ मया॒ सोऽअन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् । अ॒म॒न्तवो॒मान्त उप॑क्षियन्ति श्रु॒धिश्रु॑त श्रद्धि॒वं ते᳚ वदामि ॥ ४॥ अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः । यं का॒मये॒ तं त॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ॥ ५॥ अ॒हं रु॒द्राय॒ धनु॒रात॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒हन्त॒ वा उ॑ । अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आवि॑वेश ॥ ६॥ अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन् मम॒ योनि॑र॒प्स्व (अ॒) १॒॑न्तः स॑मु॒द्रे । ततो॒ विति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒ तामूं द्यां व॒र्ष्मणोप॑स्पृशामि ॥ ७॥ अ॒हमे॒व वात॑ऽइव॒ प्रवा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ । प॒रो दि॒वा प॒रए॒ना पृ॑थि॒व्यै ताव॑ती महि॒ना सम्ब॑भूव ॥ ८॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥ ॥ अथ स्वररहितदेवीसूक्तम् ॥ ॐ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥ १॥ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् । अहं दधामि द्रविणं हविष्मते सुप्राव्ये ए ३ यजमानाय सुन्वते ॥ २॥ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् । तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्या वेशयन्तीम् ॥ ३॥ मया सोऽअन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् । अमन्तवोमान्त उपक्षियन्ति श्रुधिश्रुत श्रद्धिवं ते वदामि ॥ ४॥ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः । यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥ ५॥ अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवेहन्त वा उ । अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश ॥ ६॥ अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्व अन्तः समुद्रे । ततो वितिष्ठे भुवनानु विश्वो तामूं द्यां वर्ष्मणोपस्पृशामि ॥ ७॥ अहमेव वातऽइव प्रवाम्यारभमाणा भुवनानि विश्वा । परो दिवा परएना पृथिव्यै तावती महिना सम्बभूव ॥ ८॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Readable Roman ri’shih’ vaagaambhri’nee, devataa vaagaambhri’nee, chhandah’ 1, 3, 7, 8 viraat’trisht’up, 2 paadanichri’jjagatee, 4, 5 trisht’up, 6 nichri’ttrisht’up, svarah’ 1, 3-8 dhaivatah’, 3 nishaadah'...